Sukta 7.37
त्वमिन्द्र स्वयशा ऋभुक्षा वाजो न साधुरस्तमेष्यृक्वा । वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः ॥
त्वमि॑न्द्र॒ स्वय॑शा ऋभु॒क्षा वाजो॒ न सा॒धुरस्त॑मे॒ष्यृक्वा॑ । व॒यं नु ते॑ दा॒श्वांस॑: स्याम॒ ब्रह्म॑ कृ॒ण्वन्तो॑ हरिवो॒ वसि॑ष्ठाः ॥
tvám indra sváyaśā ṛbhukṣā́ vājó ná sādhúr ástam eṣi ṛ́kvā | vayáṃ nú te dāśvā́ṃsaḥ syāma bráhma kṛṇvánto harivo vásiṣṭhāḥ ||
You, O Indra, self-luminous in power, master of the Ribhus’ skill, go to your home like a sure and victorious force. May we, the Vasiṣṭhas, become your givers—fashioning the inspired Word, O lord of the tawny steeds.
त्वम् । इ॒न्द्र॒ । स्वऽय॑शाः । ऋ॒भु॒क्षाः । वाजः॑ । न । सा॒धुः । अस्त॑म् । ए॒षि॒ । ऋक्वा॑ । व॒यम् । नु । ते॒ । दा॒श्वांसः॑ । स्या॒म॒ । ब्रह्म॑ । कृ॒ण्वन्तः॑ । ह॒रि॒ऽवः॒ । वसि॑ष्ठाः ॥त्वम् । इन्द्र । स्वयशाः । ऋभुक्षाः । वाजः । न । साधुः । अस्तम् । एषि । ऋक्वा । वयम् । नु । ते । दाश्वांसः । स्याम । ब्रह्म । कृण्वन्तः । हरिवः । वसिष्ठाः ॥tvam | indra | sva-yaśāḥ | ṛbhukṣāḥ | vājaḥ | na | sādhuḥ | astam | eṣi | ṛkvā | vayam | nu | te | dāśvāṃsaḥ | syāma | brahma | kṛṇvantaḥ | hari-vaḥ | vasiṣṭhāḥ