Sukta 7.37
उवोचिथ हि मघवन्देष्णं महो अर्भस्य वसुनो विभागे । उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥
उ॒वोचि॑थ॒ हि म॑घवन्दे॒ष्णं म॒हो अर्भ॑स्य॒ वसु॑नो विभा॒गे । उ॒भा ते॑ पू॒र्णा वसु॑ना॒ गभ॑स्ती॒ न सू॒नृता॒ नि य॑मते वस॒व्या॑ ॥
uvóci̱tha hí maghavan deṣṇáṃ mahó árbhasya vásuno vibhāgé | ubhā́ te pūrṇā́ vásunā gabhastī́ ná sūnṛ́tā ní yámate vasavyā́ ||
Indeed, O Maghavan, you have proclaimed the apportioning of the Vast and the Small in the distribution of the inner riches. Both your hands are full of those treasures; your straight, luminous Word is not held back, nor is the power of abundance restrained.
उ॒वोचि॑थ । हि । म॒घ॒ऽव॒न् । दे॒ष्णम् । म॒हः । अर्भ॑स्य । वसु॑नः । वि॒ऽभा॒गे । उ॒भा । ते॒ । पू॒र्णा । वसु॑ना । गभ॑स्ती॒ इति॑ । न । सू॒नृता॑ । नि । य॒म॒ते॒ । व॒स॒व्या॑ ॥उवोचिथ । हि । मघवन् । देष्णम् । महः । अर्भस्य । वसुनः । विभागे । उभा । ते । पूर्णा । वसुना । गभस्ती इति । न । सूनृता । नि । यमते । वसव्या ॥uvocitha | hi | magha-van | deṣṇam | mahaḥ | arbhasya | vasunaḥ | vi-bhāge | ubhā | te | pūrṇā | vasunā | gabhastī iti | na | sūnṛtā | ni | yamate | vasavyā