Sukta 7.37
यूयं ह रत्नं मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् । सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम् ॥
यू॒यं ह॒ रत्नं॑ म॒घव॑त्सु धत्थ स्व॒र्दृश॑ ऋभुक्षणो॒ अमृ॑क्तम् । सं य॒ज्ञेषु॑ स्वधावन्तः पिबध्वं॒ वि नो॒ राधां॑सि म॒तिभि॑र्दयध्वम् ॥
yūyáṃ ha rátnam maghávat-su dhattha svár-dṛśa ṛbhukṣaṇo amṛ́ktam | sáṃ yajñéṣu svadhā́vantaḥ pibadhvaṃ ví no rā́dhāṃsi matí-bhir dayadhvam ||
You indeed set the treasure among the bounteous—O heaven-seeing Ṛbhukṣaṇas, unerring. United in the sacrifices, self-lawed, drink; and by your inspired understandings distribute to us the riches—those powers of accomplishment.
यू॒यम् । ह॒ । रत्न॑म् । म॒घव॑त्ऽसु । ध॒त्थ॒ । स्वः॒ऽदृशः॑ । ऋ॒भु॒क्ष॒णः॒ । अमृ॑क्तम् । सम् । य॒ज्ञेषु॑ । स्व॒धा॒ऽव॒न्तः॒ । पि॒ब॒ध्व॒म् । वि । नः॒ । राधां॑सि । म॒तिऽभिः॑ । द॒य॒ध्व॒म् ॥यूयम् । ह । रत्नम् । मघवत्सु । धत्थ । स्वःदृशः । ऋभुक्षणः । अमृक्तम् । सम् । यज्ञेषु । स्वधावन्तः । पिबध्वम् । वि । नः । राधांसि । मतिभिः । दयध्वम् ॥yūyam | ha | ratnam | maghavat-su | dhattha | svaḥ-dṛśaḥ | ṛbhukṣaṇaḥ | amṛktam | sam | yajñeṣu | svadhāvantaḥ | pibadhvam | vi | naḥ | rādhāṃsi | mati-bhiḥ | dayadhvam