Sukta 7.37
आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः । अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वम् ॥
आ वो॒ वाहि॑ष्ठो वहतु स्त॒वध्यै॒ रथो॑ वाजा ऋभुक्षणो॒ अमृ॑क्तः । अ॒भि त्रि॑पृ॒ष्ठैः सव॑नेषु॒ सोमै॒र्मदे॑ सुशिप्रा म॒हभि॑: पृणध्वम् ॥
ā́ vo vā́hiṣṭho vahatu stavádhyai rátho vājā ṛbhukṣaṇo amṛ́ktaḥ | abhí trí-pṛṣṭhaiḥ sávaneṣu sómaiḥ máde su-śiprā maha-bhíḥ pṛṇadhvam ||
Let the best-bearing chariot bring you here for the sake of the praise—O Vājas, O Ṛbhukṣaṇas, unerring. With the three-backed Soma-draughts in the pressings, in your gladness, O fair-lipped ones, fill yourselves with the Vast powers.
आ । वः॒ । वाहि॑ष्ठः । व॒ह॒तु॒ । स्त॒वध्यै॑ । रथः॑ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । अमृ॑क्तः । अ॒भि । त्रि॑ऽपृ॒ष्ठैः । सव॑नेषु । सोमैः॑ । मदे॑ । सु॒ऽशि॒प्राः॒ । म॒हऽभिः॑ । पृ॒ण॒ध्व॒म् ॥आ । वः । वाहिष्ठः । वहतु । स्तवध्यै । रथः । वाजाः । ऋभुक्षणः । अमृक्तः । अभि । त्रिपृष्ठैः । सवनेषु । सोमैः । मदे । सुशिप्राः । महभिः । पृणध्वम् ॥ā | vaḥ | vāhiṣṭhaḥ | vahatu | stavadhyai | rathaḥ | vājāḥ | ṛbhukṣaṇaḥ | amṛktaḥ | abhi | tri-pṛṣṭhaiḥ | savaneṣu | somaiḥ | made | su-śiprāḥ | maha-bhiḥ | pṛṇadhvam