Sukta 7.36
यजन्ते अस्य सख्यं वयश्च नमस्विनः स्व ऋतस्य धामन् । वि पृक्षो बाबधे नृभिः स्तवान इदं नमो रुद्राय प्रेष्ठम् ॥
यज॑न्ते अस्य स॒ख्यं वय॑श्च नम॒स्विन॒: स्व ऋ॒तस्य॒ धाम॑न् । वि पृक्षो॑ बाबधे॒ नृभि॒: स्तवा॑न इ॒दं नमो॑ रु॒द्राय॒ प्रेष्ठ॑म् ॥
yájante asya sakhyáṃ váyaś ca namasvínaḥ svá ṛtásya dhā́man | ví pṛ́kṣo bābadhe nṛ́bhiḥ stávāna idáṃ námo rudrā́ya préṣṭham ||
The doers of adoration worship his comradeship and his vital increase, in the own home of ṛta. The strengthening force spreads wide when praised by men: this is the dearest homage to Rudra—the power that makes the being intensely awake.
यज॑न्ते । अ॒स्य॒ । स॒ख्यम् । वयः॑ । च॒ । न॒म॒स्विनः॑ । स्वे । ऋ॒तस्य॑ । धाम॑न् । वि । पृक्षः॑ । बा॒ब॒धे॒ । नृऽभिः॑ । स्तवा॑नः । इ॒दम् । नमः॑ । रु॒द्राय॑ । प्रेष्ठ॑म् ॥यजन्ते । अस्य । सख्यम् । वयः । च । नमस्विनः । स्वे । ऋतस्य । धामन् । वि । पृक्षः । बाबधे । नृभिः । स्तवानः । इदम् । नमः । रुद्राय । प्रेष्ठम् ॥yajante | asya | sakhyam | vayaḥ | ca | namasvinaḥ | sve | ṛtasya | dhāman | v i | pṛkṣaḥ | bābadhe | nṛ-bhiḥ | stavānaḥ | idam | namaḥ | rudrāya | preṣṭham