Sukta 7.36
आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः । महो दिवः सदने जायमानोऽचिक्रदद्वृषभः सस्मिन्नूधन् ॥
आ वात॑स्य॒ ध्रज॑तो रन्त इ॒त्या अपी॑पयन्त धे॒नवो॒ न सूदा॑: । म॒हो दि॒वः सद॑ने॒ जाय॑मा॒नोऽचि॑क्रदद्वृष॒भः सस्मि॒न्नूध॑न् ॥
ā́ vā́tasya dhrajáto rante ityā́ḥ apī́payanta dhenávo ná sū́dāḥ | mahó diváḥ sádane jā́yamāno 'cíkṛdad vṛṣabháḥ sasmínn ū́dhan ||
Toward the streaming banner of the Wind they move with delight; the giving powers swell like milch-cows, rich in sap. Born in the great seat of Heaven, the Bull cries out in that udder—pressing forth the abundance of luminous nourishment.
आ वात॑स्य । ध्रज॑तः । र॒न्ते॒ । इ॒त्याः । अपी॑पयन्त । धे॒नवः॑ । न । सूदाः॑ । म॒हः । दि॒वः । सद॑ने । जाय॑मानः । अचि॑क्रदत् । वृ॒ष॒भः । सस्मि॑न् । ऊध॑न् ॥आ वातस्य । ध्रजतः । रन्ते । इत्याः । अपीपयन्त । धेनवः । न । सूदाः । महः । दिवः । सदने । जायमानः । अचिक्रदत् । वृषभः । सस्मिन् । ऊधन् ॥ā vātasya | dhrajataḥ | rante | ityāḥ | apīpayanta | dhenavaḥ | na | sūdāḥ | mahaḥ | divaḥ | sadane | jāyamānaḥ | acikradat | vṛṣabhaḥ | sasmin | ūdhan