Sukta 7.36
इमां वां मित्रावरुणा सुवृक्तिमिषं न कृण्वे असुरा नवीयः । इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति ब्रुवाणः ॥
इ॒मां वां॑ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ॑ण्वे असुरा॒ नवी॑यः । इ॒नो वा॑म॒न्यः प॑द॒वीरद॑ब्धो॒ जनं॑ च मि॒त्रो य॑तति ब्रुवा॒णः ॥
imā́ṃ vāṃ mitrā́varuṇā su-vṛktím iṣáṃ ná kṛṇve asurā́ navī́yaḥ | inó vā́m anyáḥ padavī́r ádabdho jánaṃ ca mitró yatati bruvāṇáḥ ||
O Mitra and Varuṇa, I fashion for you this well-woven utterance, a freshening impulse like a nourishing draught—new as befits you, O Lords of the inner sovereignty. One of you is the inviolate Path-finder who sets the tracks; and Mitra too, by the power of the word, disciplines and harmonizes the human multitude.
इ॒माम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽवृ॒क्तिम् । इष॑म् । न । कृ॒ण्वे॒ । अ॒सु॒रा॒ । नवी॑यः । इ॒नः । वा॒म् । अ॒न्यः । प॒द॒वीः । अद॑ब्धः । जन॑म् । च॒ । मि॒त्रः । य॒त॒ति॒ । ब्रु॒वा॒णः ॥इमाम् । वाम् । मित्रावरुणा । सुवृक्तिम् । इषम् । न । कृण्वे । असुरा । नवीयः । इनः । वाम् । अन्यः । पदवीः । अदब्धः । जनम् । च । मित्रः । यतति । ब्रुवाणः ॥imām | vām | mitrāvaruṇā | su-vṛktim | iṣam | na | kṛṇve | asurā | navīyaḥ | inaḥ | vām | anyaḥ | padavīḥ | adabdhaḥ | janam | ca | mitraḥ | yatati | bruvāṇaḥ