Sukta 7.36
प्र ब्रह्मैतु सदनादृतस्य वि रश्मिभिः ससृजे सूर्यो गाः । वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकमध्येधे अग्निः ॥
प्र ब्रह्मै॑तु॒ सद॑नादृ॒तस्य॒ वि र॒श्मिभि॑: ससृजे॒ सूर्यो॒ गाः । वि सानु॑ना पृथि॒वी स॑स्र उ॒र्वी पृ॒थु प्रती॑क॒मध्येधे॑ अ॒ग्निः ॥
prá bráhma etu sádanād ṛtásya ví raśmí-bhiḥ sasṛje sū́ryo gā́ḥ | ví sānúnā pṛthivī́ sasre urvī́ pṛthú pratī́kam ádhi ā́ īdhe agníḥ ||
Let the inspired Word go forth from the seat of the Right. With his rays the Sun has released the cows of light. The wide Earth has spread out with her ridges; and on the broad altar-face Agni is kindled in the midst.
प्र । ब्रह्म॑ । ए॒तु॒ । सद॑नात् । ऋ॒तस्य॑ । वि । र॒श्मिऽभिः॑ । स॒सृ॒जे॒ । सूर्यः॑ । गाः । वि । सानु॑ना । पृ॒थि॒वी । स॒स्रे॒ । उ॒र्वी । पृ॒थु । प्रती॑कम् । अधि॑ । आ । ई॒धे॒ । अ॒ग्निः ॥प्र । ब्रह्म । एतु । सदनात् । ऋतस्य । वि । रश्मिभिः । ससृजे । सूर्यः । गाः । वि । सानुना । पृथिवी । सस्रे । उर्वी । पृथु । प्रतीकम् । अधि । आ । ईधे । अग्निः ॥pra | brahma | etu | sadanāt | ṛtasya | vi | raśmi-bhiḥ | sasṛje | sūryaḥ | gāḥ | v i | sānunā | pṛthivī | sasre | urvī | pṛthu | pratīkam | adhi | ā | īdhe | agniḥ