Sukta 7.35
शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवन्तु । शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥
शं न॒: सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं न॒श्चत॑स्रः प्र॒दिशो॑ भवन्तु । शं न॒: पर्व॑ता ध्रु॒वयो॑ भवन्तु॒ शं न॒: सिन्ध॑व॒: शमु॑ स॒न्त्वाप॑: ॥
śáṃ naḥ sū́rya urucákṣā́ úd etu śáṃ naś cátasraḥ prádiśo bhavantu | śáṃ naḥ पर्वताः dhruváyo bhavantu śáṃ naḥ síndhavaḥ śám u sántv ā́paḥ ||
Peace for us: may the Sun of wide vision arise; peace for us: may the four quarters become peace. Peace for us: may the mountains be steadfast peace; peace for us: may the rivers be peace, and may the waters be peace.
शम् । नः॒ । सूर्यः॑ । उ॒रु॒ऽचक्षाः॑ । उत् । ए॒तु॒ । शम् । नः॒ । चत॑स्रः । प्र॒ऽदिशः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । पर्व॑ताः । ध्रु॒वयः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । सिन्ध॑वः । शम् । ऊँ॒ इति॑ । स॒न्तु॒ । आपः॑ ॥शम् । नः । सूर्यः । उरुचक्षाः । उत् । एतु । शम् । नः । चतस्रः । प्रदिशः । भवन्तु । शम् । नः । पर्वताः । ध्रुवयः । भवन्तु । शम् । नः । सिन्धवः । शम् । ऊँ इति । सन्तु । आपः ॥śam | naḥ | sūryaḥ | uru-cakṣāḥ | ut | etu | śam | naḥ | catasraḥ | pra-diśaḥ | bhavantu | śam | naḥ | parvatāḥ | dhruvayaḥ | bhavantu | śam | naḥ | sindhavaḥ | śam | oṃ iti | santu | āpaḥ