Sukta 7.35
शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः । शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः शम्वस्तु वेदिः ॥
शं न॒: सोमो॑ भवतु॒ ब्रह्म॒ शं न॒: शं नो॒ ग्रावा॑ण॒: शमु॑ सन्तु य॒ज्ञाः । शं न॒: स्वरू॑णां मि॒तयो॑ भवन्तु॒ शं न॑: प्र॒स्व१॒॑: शम्व॑स्तु॒ वेदि॑: ॥
śáṃ naḥ sómo bhavatu bráhma śáṃ naḥ | śáṃ no grā́vāṇaḥ śám u santu yajñā́ḥ | śáṃ naḥ svarū́ṇāṃ mitáyo bhavantu śáṃ naḥ prá-svaḥ śám u astu védiḥ ||
Peace for us: may Soma become our inspired Word; peace for us. Peace for us: may the pressing-stones be peace; may the sacrificial workings be peace. Peace for us: may the measured harmonies of the luminous powers become peace; peace for us: may the forward impelling breath be peace; may the altar-seat of offering be peace.
शम् । नः॒ । सोमः॑ । भ॒व॒तु॒ । ब्रह्म॑ । शम् । नः॒ । शम् । नः॒ । ग्रावा॑णः । शम् । ऊँ॒ इति॑ । स॒न्तु॒ । य॒ज्ञाः । शम् । नः॒ । स्वरू॑णाम् । मि॒तयः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । प्र॒ऽस्वः॑ । शम् । ऊँ॒ इति॑ । अ॒स्तु॒ । वेदिः॑ ॥शम् । नः । सोमः । भवतु । ब्रह्म । शम् । नः । शम् । नः । ग्रावाणः । शम् । ऊँ इति । सन्तु । यज्ञाः । शम् । नः । स्वरूणाम् । मितयः । भवन्तु । शम् । नः । प्रस्वः । शम् । ऊँ इति । अस्तु । वेदिः ॥śam | naḥ | somaḥ | bhavatu | brahma | śam | naḥ | śam | naḥ | grāvāṇaḥ | śam | oṃ iti | santu | yajñāḥ | śam | naḥ | svarāūṇām | mitayaḥ | bhavantu | śam | naḥ | pra-svaḥ | śam | oṃ iti | astu | vediḥ