Sukta 7.35
शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः । शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥
शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंस॑: । शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑ष॒: शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥
śáṃ na índro vásubhir devó astu śám ādityébhir váruṇaḥ suśáṃsaḥ | śáṃ no rudró rudrébhir jalā́ṣaḥ śáṃ nas tváṣṭā gnā́bhir ihá śṛṇotu ||
Peace for us: may Indra the god be with the Vasus; peace: may Varuṇa, well-affirming, be with the Ādityas. Peace for us: may Rudra, healing and gracious, be with the Rudras. Peace for us: may Tvaṣṭṛ here hear us together with the divine Mothers (gnā).
शम् । नः॒ । इन्द्रः॑ । वसु॑ऽभिः । दे॒वः । अ॒स्तु॒ । शम् । आ॑आ॒दि॒त्येभिः । वरु॑णः । सु॒ऽशंसः॑ । शम् । नः॒ । रु॒द्रः । रु॒द्रेभिः॑ । जला॑षः । शम् । नः॒ । त्वष्टा॑ । ग्नाभिः॑ । इ॒ह । शृ॒णो॒तु॒ ॥शम् । नः । इन्द्रः । वसुभिः । देवः । अस्तु । शम् । आआदित्येभिः । वरुणः । सुशंसः । शम् । नः । रुद्रः । रुद्रेभिः । जलाषः । शम् । नः । त्वष्टा । ग्नाभिः । इह । शृणोतु ॥śam | naḥ | indraḥ | vasu-bhiḥ | devaḥ | astu | śam | āādityebhiḥ | varuṇaḥ | su-śaṃsaḥ | śam | naḥ | rudraḥ | rudrebhiḥ | jalāṣaḥ | śam | naḥ | tvaṣṭā | gnābhiḥ | iha | śṛṇotu