Sukta 7.35
शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु । शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥
शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अस्तु । शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥
śáṃ no dyā́vāpṛthivī́ pū́rvahūtau śám antárikṣaṃ dṛśáye no astu | śáṃ na oṣadhīr vaníno bhavantu śáṃ no rájasas pátir astu jiṣṇúḥ ||
Peace for us: may Heaven and Earth, first-invoked, be auspicious; peace: may the mid-region be for us a clear field of seeing. Peace for us: may the plants and forest-powers be favourable. Peace for us: may the Lord of the spaces be victorious and establish our harmony.
शम् । नः॒ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽहू॑तौ । शम् । अ॒न्तरि॑क्षम् । दृ॒शये॑ । नः॒ । अ॒स्तु॒ । शम् । नः॒ । ओष॑धीः । व॒निनः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । रज॑सः । पतिः॑ । अ॒स्तु॒ । जि॒ष्णुः ॥शम् । नः । द्यावापृथिवी इति । पूर्वहूतौ । शम् । अन्तरिक्षम् । दृशये । नः । अस्तु । शम् । नः । ओषधीः । वनिनः । भवन्तु । शम् । नः । रजसः । पतिः । अस्तु । जिष्णुः ॥śam | naḥ | dyāvāpṛthivī iti | pūrva-hūtau | śam | antarikṣam | dṛśaye | naḥ | astu | śam | naḥ | oṣadhīḥ | vaninaḥ | bhavantu | śam | naḥ | rajasaḥ | patiḥ | astu | jiṣṇuḥ