Sukta 7.35
शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् । शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥
शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम् । शं न॑: सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वात॑: ॥
śáṃ no agnír jyótir-anīko astu śáṃ no mitrā́varuṇāv aśvínā śám | śáṃ naḥ su-kṛtā́ṃ su-kṛtā́ni santu śáṃ na iṣiró abhí vātu vā́taḥ ||
Peace for us: may Agni be a face of light; peace for us: may Mitra and Varuṇa, may the Aśvins bring harmony. Peace for us: may our right doings and the forces of right action be present. Peace for us: may the swift, impelling Wind breathe upon us with its clear movement.
शम् । नः॒ । अ॒ग्निः । ज्योतिः॑ऽअनीकः । अ॒स्तु॒ । शम् । नः॒ । मि॒त्रावरु॑णौ । अ॒श्विना॑ । शम् । शम् । नः॒ । सु॒ऽकृता॑म् । सु॒ऽकृ॒तानि॑ । स॒न्तु॒ । शम् । नः॒ । इ॒षि॒रः । अ॒भि । वा॒तु॒ । वातः॑ ॥शम् । नः । अग्निः । ज्योतिःअनीकः । अस्तु । शम् । नः । मित्रावरुणौ । अश्विना । शम् । शम् । नः । सुकृताम् । सुकृतानि । सन्तु । शम् । नः । इषिरः । अभि । वातु । वातः ॥śam | naḥ | agniḥ | jyotiḥ-anīkaḥ | astu | śam | naḥ | mitrāvaruṇau | aśvinā | śam | śam | naḥ | su-kṛtām | su-kṛtāni | santu | śam | naḥ | iṣiraḥ | abhi | vātu | vātaḥ