Sukta 7.35
शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥
शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभि॑: । शं रोद॑सी बृह॒ती शं नो॒ अद्रि॒: शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु ॥
śáṃ no dhātā́ śám u dhartā́ no astu śáṃ na urūcī́ bhavatu svadhā́bhiḥ | śáṃ rodasī bṛhatī́ śáṃ no ádriḥ śáṃ no devā́nāṃ su-hávāni santu ||
Peace for us: may Dhātṛ, the establisher, and the Bearer uphold us; peace indeed. Peace for us: may the wide-shining Power be by her own right workings. Peace: may the vast two worlds be auspicious; peace for us: may the firm foundation be auspicious. Peace for us: may our invocations to the gods be good calls and rightly answered.
शम् । नः॒ । धा॒ता । शम् । ऊँ॒ इति॑ । ध॒र्ता । नः॒ । अ॒स्तु॒ । शम् । नः॒ । उ॒रू॒ची । भ॒व॒तु॒ । स्व॒धाभिः॑ । शम् । रोद॑सी॒ इति॑ । बृ॒ह॒ती । शम् । नः॒ । अद्रिः॑ । शम् । नः॒ । दे॒वाना॑म् । सु॒ऽहवा॑नि । स॒न्तु॒ ॥शम् । नः । धाता । शम् । ऊँ इति । धर्ता । नः । अस्तु । शम् । नः । उरूची । भवतु । स्वधाभिः । शम् । रोदसी इति । बृहती । शम् । नः । अद्रिः । शम् । नः । देवानाम् । सुहवानि । सन्तु ॥śam | naḥ | dhātā | śam | oṃ iti | dhartā | naḥ | astu | śam | naḥ | urūcī | bhavatu | svadhābhiḥ | śam | rodasī iti | bṛhatī | śam | naḥ | adriḥ | śam | naḥ | devānām | su-havāni | santu