Sukta 7.35
शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः । शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥
शं नो॒ भग॒: शमु॑ न॒: शंसो॑ अस्तु॒ शं न॒: पुरं॑धि॒: शमु॑ सन्तु॒ राय॑: । शं न॑: स॒त्यस्य॑ सु॒यम॑स्य॒ शंस॒: शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥
śáṃ no bhágáḥ śám u naḥ śáṃso astu śáṃ naḥ puráṃdhíḥ śám u santu rā́yaḥ | śáṃ naḥ satyásya su-yámasya śáṃsaḥ śáṃ no aryamā́ purujā́to astu ||
Peace for us: may Bhaga be with us; peace indeed: may our word of affirmation be auspicious. Peace for us: may Purandhi bring her fullness; peace indeed: may the plenitudes (rāyas) be ours. Peace for us: may the affirmation of the True and the right-guided be with us; peace for us: may Aryaman, wide-born, establish harmony.
शम् । नः॒ । भगः॒ । शम् । ऊँ॒ इति॑ । नः॒ । शंसः॑ । अ॒स्तु॒ । शम् । नः॒ । पुर॑म्ऽधिः । शम् । ऊँ॒ इति॑ । स॒न्तु॒ । रायः॑ । शम् । नः॒ । स॒त्यस्य॑ । सु॒ऽयम॑स्य । शंसः॑ । शम् । नः॒ । अ॒र्य॒मा । पु॒रु॒ऽजा॒तः । अ॒स्तु॒ ॥शम् । नः । भगः । शम् । ऊँ इति । नः । शंसः । अस्तु । शम् । नः । पुरम्धिः । शम् । ऊँ इति । सन्तु । रायः । शम् । नः । सत्यस्य । सुयमस्य । शंसः । शम् । नः । अर्यमा । पुरुजातः । अस्तु ॥śam | naḥ | bhagaḥ | śam | oṃ iti | naḥ | śaṃsaḥ | astu | śam | naḥ | puram-dhiḥ | śam | oṃ iti | santu | rāyaḥ | śam | naḥ | satyasya | su-yamasya | śaṃsaḥ | śam | naḥ | aryamā | puru-jātaḥ | astu