Sukta 7.35
शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या । शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥
शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भि॒: शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या । शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ ॥
śáṃ na indrāgnī bhavatām ávobhiḥ śáṃ na indrāvaruṇā rātáhavyā | śám indrāsómā suvitā́ya śáṃ yóḥ śáṃ na indrāpūṣaṇā vājásātau ||
Peace for us: may Indra and Agni become our helpers with their succours; peace for us: may Indra and Varuṇa, givers of the offering, establish it. Peace: may Indra and Soma lead us to the right going; peace and plenitude: may Indra and Pūṣan bring us victory in the gaining of force.
शम् । नः॒ । इ॒न्द्रा॒ग्नी इति॑ । भ॒व॒ता॒म् । अवः॑ऽभिः । शम् । नः॒ । इन्द्रा॒वरु॑णा । रा॒तऽह॑व्या । शम् । इन्द्रा॒सोमा॑ । सु॒वि॒ताय॑ । शम् । योः । शम् । नः॒ । इन्द्रा॑पू॒षणा । वाज॑ऽसातौ ॥शम् । नः । इन्द्राग्नी इति । भवताम् । अवःभिः । शम् । नः । इन्द्रावरुणा । रातहव्या । शम् । इन्द्रासोमा । सुविताय । शम् । योः । शम् । नः । इन्द्रापूषणा । वाजसातौ ॥śam | naḥ | indrāgnī iti | bhavatām | avaḥ-bhiḥ | śam | naḥ | indrāvaruṇā | rāta-havyā | śam | indrāsomā | suvitāya | śam | yoḥ | śam | naḥ | indrāpūṣaṇā | vāja-sātau