Sukta 7.35
शं नो अज एकपाद्देवो अस्तु शं नोऽहिर्बुध्न्यः शं समुद्रः । शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा ॥
शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१॒॑: शं स॑मु॒द्रः । शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं न॒: पृश्नि॑र्भवतु दे॒वगो॑पा ॥
śáṃ no ajá éka-pād devó astu śáṃ no áhīr budhnyàḥ śáṃ samudráḥ | śáṃ no apā́ṃ nápāt pérur astu śáṃ naḥ pṛ́śnir bhavatu deva-gópā ||
Peace for us: may the god Aja-Ekapād be peace; peace for us: may Ahi Budhnya be peace; peace: may the Oceanic Vast be peace. Peace for us: may Apām Napāt, the shining one, be peace; peace for us: may Pṛśni be peace, the divine protector.
शम् । नः॒ । अ॒जः । एक॑ऽपात् । दे॒वः । अ॒स्तु॒ । शम् । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । शम् । स॒मु॒द्रः । शम् । नः॒ । अ॒पाम् । नपा॑त् । पे॒रुः । अ॒स्तु॒ । शम् । नः॒ । पृश्निः॑ । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥शम् । नः । अजः । एकपात् । देवः । अस्तु । शम् । नः । अहिः । बुध्न्यः । शम् । समुद्रः । शम् । नः । अपाम् । नपात् । पेरुः । अस्तु । शम् । नः । पृश्निः । भवतु । देवगोपा ॥śam | naḥ | ajaḥ | eka-pāt | devaḥ | astu | śam | naḥ | ahiḥ | budhnyaḥ | śam | samudraḥ | śam | naḥ | apām | napāt | peruḥ | astu | śam | naḥ | pṛśniḥ | bhavatu | deva-gopā