Sukta 7.35
शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः । शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥
शं न॑: स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्त॒: शमु॑ सन्तु॒ गाव॑: । शं न॑ ऋ॒भव॑: सु॒कृत॑: सु॒हस्ता॒: शं नो॑ भवन्तु पि॒तरो॒ हवे॑षु ॥
śáṃ naḥ satyásya pátayo bhavantu śáṃ no árvantaḥ śám u santu gā́vaḥ | śáṃ na ṛ́bhavaḥ su-kṛ́taḥ su-hástāḥ śáṃ no bhavantu pítaro háveṣu ||
Peace for us: may the lords of Truth become peace; peace for us: may the steeds be peace; may the rays of light (cows) be peace. Peace for us: may the Ribhus, perfect in work and skilful-handed, be peace; peace for us: may the Fathers be peace in our invocations.
शम् । नः॒ । स॒त्यस्य॑ । पत॑यः । भ॒व॒न्तु॒ । शम् । नः॒ । अर्व॑न्तः । शम् । ऊँ॒ इति॑ । स॒न्तु॒ । गावः॑ । शम् । नः॒ । ऋ॒भवः॑ । सु॒ऽकृतः॑ । सु॒ऽहस्ताः॑ । शम् । नः॒ । भ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥शम् । नः । सत्यस्य । पतयः । भवन्तु । शम् । नः । अर्वन्तः । शम् । ऊँ इति । सन्तु । गावः । शम् । नः । ऋभवः । सुकृतः । सुहस्ताः । शम् । नः । भवन्तु । पितरः । हवेषु ॥śam | naḥ | satyasya | patayaḥ | bhavantu | śam | naḥ | arvantaḥ | śam | oṃ iti | santu | gāvaḥ | śam | naḥ | ṛbhavaḥ | su-kṛtaḥ | su-hastāḥ | śam | naḥ | bhavantu | pitaraḥ | haveṣu