Sukta 7.35
शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः ॥
शं नो॑ दे॒वः स॑वि॒ता त्राय॑माण॒: शं नो॑ भवन्तū॒षसो॑ विभा॒तीः । शं न॑: प॒र्जन्यो॑ भवतु प्र॒जाभ्य॒: शं न॒: क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः ॥
śáṃ no deváḥ savitā́ trā́yamāṇaḥ śáṃ no bhavantu ūṣáso vi-bhātī́ḥ | śáṃ naḥ párjanyo bhavatu pra-jā́bhyaḥ śáṃ naḥ kṣétrasya pátiḥ astu śambhúḥ ||
Peace for us: may Savitṛ, the divine impeller and protector, be peace; peace for us: may the Dawns, shining out, become peace. Peace for us: may Parjanya be peace for our becomings and births; peace for us: may the Lord of the Field be peace, the giver of well-being.
शम् । नः॒ । दे॒वः । स॒वि॒ता । त्राय॑माणः । शम् । नः॒ । भ॒व॒न्तु॒ । उ॒षसः॑ । वि॒ऽभा॒तीः । शम् । नः॒ । प॒र्जन्यः॑ । भ॒व॒तु॒ । प्र॒ऽजाभ्यः॑ । शम् । नः॒ । क्षेत्र॑स्य । पतिः॑ । अ॒स्तु॒ । श॒म्ऽभुः ॥शम् । नः । देवः । सविता । त्रायमाणः । शम् । नः । भवन्तु । उषसः । विभातीः । शम् । नः । पर्जन्यः । भवतु । प्रजाभ्यः । शम् । नः । क्षेत्रस्य । पतिः । अस्तु । शम्भुः ॥śam | naḥ | devaḥ | savitā | trāyamāṇaḥ | śam | naḥ | bhavantu | uṣasaḥ | vi-bhātīḥ | śam | naḥ | parjanyaḥ | bhavatu | pra-jābhyaḥ | śam | naḥ | kṣetrasya | patiḥ | astu | śam-bhuḥ