Sukta 7.34
अनु तदुर्वी रोदसी जिहातामनु द्युक्षो वरुण इन्द्रसखा । अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ॥
अनु॒ तदु॒र्वी रोद॑सी जिहाता॒मनु॑ द्यु॒क्षो वरु॑ण॒ इन्द्र॑सखा । अनु॒ विश्वे॑ म॒रुतो॒ ये स॒हासो॑ रा॒यः स्या॑म ध॒रुणं॑ धि॒यध्यै॑ ॥
ánu tád urvī́ rodasī jihātām ánu dyúkṣo váruṇa índrasakhā | ánu víśve marúto yé sahā́so rāyáḥ syāma dharúṇaṃ dhiyádhyai ||
In accord with that, may the wide two worlds yield and open; in accord may Varuṇa follow, he who shines and is the comrade of Indra. In accord may all the Maruts, the mighty ones, move with us—so that we may become possessors of plenitude, a sure foundation for the growing of the thought.
अनु॑ । तत् । उ॒र्वी इति॑ । रोद॑सी॒ इति॑ । जि॒हा॒ता॒म् । अनु॑ । द्यु॒क्षः । वरु॑णः । इन्द्र॑ऽसखा । अनु॑ । विश्वे॑ । म॒रुतः॑ । ये । स॒हासः॑ । रा॒यः । स्या॒म॒ । ध॒रुण॑म् । धि॒यध्यै॑ ॥अनु । तत् । उर्वी इति । रोदसी इति । जिहाताम् । अनु । द्युक्षः । वरुणः । इन्द्रसखा । अनु । विश्वे । मरुतः । ये । सहासः । रायः । स्याम । धरुणम् । धियध्यै ॥anu | tat | urvī iti | rodasī iti | jihātām | anu | dyukṣaḥ | varuṇaḥ | indra-sakhā | anu | viśve | marutaḥ | ye | sahāsaḥ | rāyaḥ | syāma | dharuṇam | dhiyadhyai