Sukta 7.34
तन्नो रायः पर्वतास्तन्न आपस्तद्रातिषाच ओषधीरुत द्यौः । वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥
तन्नो॒ राय॒: पर्व॑ता॒स्तन्न॒ आप॒स्तद्रा॑ति॒षाच॒ ओष॑धीरु॒त द्यौः । वन॒स्पति॑भिः पृथि॒वी स॒जोषा॑ उ॒भे रोद॑सी॒ परि॑ पासतो नः ॥
tán no rāyaḥ párvatās tán na ā́pas tád rātiṣāca oṣadhīr utá dyauḥ | vanáspatibhiḥ pṛthivī sajóṣā ubhé rodasī pári pāsato naḥ ||
May the mountains bring to us that plenitude; may the waters bring it; may the powers that go with giving, and the plants, and Heaven too. May Earth, in one accord with the lords of the forest, and both the worlds encompass us on every side with their guarding.
तत् । नः॒ । रायः॑ । पर्व॑ताः । तत् । नः॒ । आपः॑ । तत् । रा॒ति॒ऽसाचः॑ । ओष॑धीः । उ॒त । द्यौः । वन॒स्पति॑ऽभिः । पृ॒थि॒वी । स॒ऽजोषाः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । परि॑ । पा॒स॒तः॒ । नः॒ ॥तत् । नः । रायः । पर्वताः । तत् । नः । आपः । तत् । रातिसाचः । ओषधीः । उत । द्यौः । वनस्पतिभिः । पृथिवी । सजोषाः । उभे इति । रोदसी इति । परि । पासतः । नः ॥tat | naḥ | rāyaḥ | parvatāḥ | tat | naḥ | āpaḥ | tat | rāti-sācaḥ | oṣadhīḥ | uta | dyauḥ | vanaspati-bhiḥ | pṛthivī | sa-joṣāḥ | ubhe iti | rodasī iti | pari | pāsataḥ | naḥ