Sukta 7.34
तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त । शर्मन्त्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥
तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषन्त । शर्म॑न्त्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
tán na índro váruṇo mitró agnír ā́pa oṣadhīr vaníno juṣanta | śármant syāma marútām upásthe yūyáṃ pāta svastíbhiḥ sádā naḥ ||
May Indra and Varuṇa, Mitra and Agni, the Waters, the Plants, and the Forest-powers take delight in this for us. May we dwell in peace in the lap of the Maruts; you Powers, guard us always with your harmonies of well-being.
तत् । नः॒ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । आपः॑ । ओष॑धीः । व॒निनः॑ । जु॒ष॒न्त॒ । शर्म॑न् । स्या॒म॒ । म॒रुता॑म् । उ॒पऽस्थे॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥तत् । नः । इन्द्रः । वरुणः । मित्रः । अग्निः । आपः । ओषधीः । वनिनः । जुषन्त । शर्मन् । स्याम । मरुताम् । उपस्थे । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥tat | naḥ | indraḥ | varuṇaḥ | mitraḥ | agniḥ | āpaḥ | oṣadhīḥ | vaninaḥ | juṣanta | śarman | syāma | marutām | upa-sthe | yūyam | pāta | svasti-bhiḥ | sadā | naḥ