Sukta 7.34
ता नो रासन्रातिषाचो वसून्या रोदसी वरुणानी शृणोतु । वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ॥
ता नो॑ रासन्राति॒षाचो॒ वसू॒न्या रोद॑सी वरुणा॒नी शृ॑णोतु । वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु॒ त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ राय॑: ॥
tā no rāsan rātiṣāco vasūny ā rodasī varuṇānī śṛṇotu | varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ ||
May those Powers that move with the giving bring to us the riches of being; may Varuṇānī, the wide two worlds, hear our call. With her protections may there be for us a happy refuge; may Tvaṣṭṛ, the good giver, apportion and set in us the plenitude (rāyas).
ता । नः॒ । रा॒स॒न् । रा॒ति॒ऽसाचः॑ । वसू॒नि । आ । रोद॑सी॒ इति॑ । व॒रु॒णा॒नी । शृ॒णो॒तु॒ । वरू॑त्रीभिः । सु॒ऽश॒र॒णः । नः॒ । अ॒स्तु॒ । त्वष्टा॑ । सु॒ऽदत्रः॑ । वि । द॒धा॒तु॒ । रायः॑ ॥ता । नः । रासन् । रातिसाचः । वसूनि । आ । रोदसी इति । वरुणानी । शृणोतु । वरूत्रीभिः । सुशरणः । नः । अस्तु । त्वष्टा । सुदत्रः । वि । दधातु । रायः ॥tā | naḥ | rāsan | rāti-sācaḥ | vasūni | ā | rodasī iti | varuṇānī | śṛṇotu | varāūtrībhiḥ | su-śaraṇaḥ | naḥ | astu | tvaṣṭā | su-datraḥ | vi | dadhātu | rāyaḥ