Sukta 7.32
मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे । तरणिरिज्जयति क्षेति पुष्यति न देवासः कवत्नवे ॥
मा स्रे॑धत सोमिनो॒ दक्ष॑ता म॒हे कृ॑णु॒ध्वं रा॒य आ॒तुजे॑ । त॒रणि॒रिज्ज॑यति॒ क्षेति॒ पुष्य॑ति॒ न दे॒वास॑: कव॒त्नवे॑ ॥
mā́ srédhata somino dákṣatā mahé kṛṇudhvám rāyá ātúje | taraṇír íj jayati kṣéti púṣyati ná devā́saḥ kavatnávé ||
Do not fail, O Soma-pressers; be capable—work for the great, for the swift-coming plenitude. The overpassing power indeed conquers, dwells, and increases; the gods are not for the faint-striving.
मा । स्रे॒ध॒त॒ । सो॒मि॒नः॒ । दक्ष॑त । म॒हे । कृ॒णु॒ध्वम् । रा॒ये । आ॒ऽतुजे॑ । त॒रणिः॑ । इत् । ज॒य॒ति॒ । क्षेति॑ । पुष्य॑ति । न । दे॒वासः॑ । क॒व॒त्नवे॑ ॥मा । स्रेधत । सोमिनः । दक्षत । महे । कृणुध्वम् । राये । आतुजे । तरणिः । इत् । जयति । क्षेति । पुष्यति । न । देवासः । कवत्नवे ॥mā | sredhata | sominaḥ | dakṣata | mahe | kṛṇudhvam | rāye | ātuje | taraṇiḥ | it | jayati | kṣeti | puṣyati | na | devāsaḥ | kavatnave