Sukta 7.32
सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे । पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥
सु॒नोता॑ सोम॒पाव्ने॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ । पच॑ता प॒क्तीरव॑से कृणु॒ध्वमित्पृ॒णन्नित्पृ॑ण॒ते मय॑: ॥
sunótā somapā́vne sómam índrāya vájriṇe | pácatā paktī́r ávase kṛṇudhvám ít pṛṇánn ít pṛṇaté máyaḥ ||
Press the Soma for the Soma-drinker, for Indra the thunder-bearer; cook the offerings and make them ready for his help—he who fills, gives delight to the one who would be filled.
सु॒नोत॑ । सो॒म॒ऽपाव्ने॑ । सोम॑म् । इन्द्रा॑य । व॒ज्रिणे॑ । पच॑त्स् । प॒क्तीः । अव॑से । कृ॒णु॒ध्वम् । इत् । पृ॒णन् । इत् । पृ॒ण॒ते । मयः॑ ॥सुनोत । सोमपाव्ने । सोमम् । इन्द्राय । वज्रिणे । पचत्स् । पक्तीः । अवसे । कृणुध्वम् । इत् । पृणन् । इत् । पृणते । मयः ॥sunota | soma-pāvne | somam | indrāya | vajriṇe | pacats | paktīḥ | avase | kṛṇudhvam | it | pṛṇan | it | pṛṇate | mayaḥ