Sukta 7.32
भवा वरूथं मघवन्मघोनां यत्समजासि शर्धतः । वि त्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम् ॥
भवा॒ वरू॑थं मघवन्म॒घोनां॒ यत्स॒मजा॑सि॒ शर्ध॑तः । वि त्वाह॑तस्य॒ वेद॑नं भजेम॒ह्या दू॒णाशो॑ भरा॒ गय॑म् ॥
bhávā várūthaṃ maghavan maghónāṃ yát samájāsi śárdhataḥ | ví tvāhatasya védaṇaṃ bhajemahy ā́ dūṇā́śo bharā́ gáyam ||
Become our protecting shelter, O bounteous one, of the bounteous host when thou gatherest them in their companies; let us share the winning of the smitten foe—bring to us the gain and plenitude from the distressed and hostile powers.
भव॑ । वरू॑थम् । म॒घ॒ऽव॒न् । म॒घोना॑म् । यत् । स॒म्ऽअजा॑सि । शर्ध॑तः । वि । त्वाऽह॑तस्य । वेद॑नम् । भ॒जे॒म॒हि॒ । आ । दुः॒ऽनशः॑ । भ॒र॒ । गय॑म् ॥भव । वरूथम् । मघवन् । मघोनाम् । यत् । सम्अजासि । शर्धतः । वि । त्वाहतस्य । वेदनम् । भजेमहि । आ । दुःनशः । भर । गयम् ॥bhava | varāūtham | magha-van | maghonām | yat | sam-ajāsi | śardhataḥ | vi | tvāhatasya | vedanam | bhajemahi | ā | duḥ-naśaḥ | bhara | gayam