Sukta 7.32
स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः । यस्ते गभीरा सवनानि वृत्रहन्त्सुनोत्या च धावति ॥
स वी॒रो अप्र॑तिष्कुत॒ इन्द्रे॑ण शूशुवे॒ नृभि॑: । यस्ते॑ गभी॒रा सव॑नानि वृत्रहन्त्सु॒नोत्या च॒ धाव॑ति ॥
sá vīró ápratiṣkuta índreṇa śūśuve nṛ́bhiḥ | yás te gabhīrā́ sávanāni vṛtrahan sunóty ā́ ca dhā́vati ||
That hero, not turned back, grows strong with Indra and with the men of force—he who, O slayer of the Coverer, presses out thy deep Soma-offerings and hastens toward thee.
सः । वी॒रः । अप्र॑तिऽस्कुतः । इन्द्रे॑ण । शू॒शु॒वे॒ । नृऽभिः॑ । यः । ते॒ । ग॒भी॒रा । सव॑नानि । वृ॒त्र॒ऽह॒न् । सु॒नोति॑ । आ । च॒ । धाव॑ति ॥सः । वीरः । अप्रतिस्कुतः । इन्द्रेण । शूशुवे । नृभिः । यः । ते । गभीरा । सवनानि । वृत्रहन् । सुनोति । आ । च । धावति ॥saḥ | vīraḥ | aprati-skutaḥ | indreṇa | śūśuve | nṛ-bhiḥ | yaḥ | te | gabhīrā | savanāni | vṛtra-han | sunoti | ā | ca | dhāvati