Sukta 7.32
इम इन्द्राय सुन्विरे सोमासो दध्याशिरः । ताँ आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥
इ॒म इन्द्रा॑य सुन्विरे॒ सोमा॑सो॒ दध्या॑शिरः । ताँ आ मदा॑य वज्रहस्त पी॒तये॒ हरि॑भ्यां या॒ह्योक॒ आ ॥
imé índrāya sunvire sómāso dádhyāśiraḥ | tā́ṃ ā́ madā́ya vajrahasta pītáye háribhyāṃ yā́hy óka ā́ ||
These Soma-pressings are prepared for Indra, mixed with the strengthening curd; come, O wielder of the thunder-force, for the ecstasy and for the drinking—ride with thy two luminous powers and enter the home of the offering.
इ॒मे । इन्द्रा॑य । सु॒न्वि॒रे॒ । सोमा॑सः । दधि॑ऽआशिरः । तान् । आ । मदा॑य । व॒ज्र॒ऽह॒स्त॒ । पी॒तये॑ । हरि॑ऽभ्याम् । या॒हि॒ । ओकः॑ । आ ॥इमे । इन्द्राय । सुन्विरे । सोमासः । दधिआशिरः । तान् । आ । मदाय । वज्रहस्त । पीतये । हरिभ्याम् । याहि । ओकः । आ ॥ime | indrāya | sunvire | somāsaḥ | dadhi-āśiraḥ | tān | ā | madāya | vajra-hasta | pītaye | hari-bhyām | yāhi | okaḥ | ā