Sukta 7.32
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥
इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ । शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ॥
índra krátum na ā́ bhara pitā́ putrébhyo yáthā | śíkṣā no asmín puruhūta yā́mani jīvā́ jyótiḥ aśīmahi ||
O Indra, bring to us the will and right intelligence, as a father brings it to his sons. Teach us in this journey, O thou of many calls, so that living, we may attain the Light.
इन्द्र॑ । क्रतु॑म् । नः॒ । आ । भ॒र॒ । पि॒ता । पु॒त्रेभ्यः॑ । यथा॑ । शिक्ष॑ । नः॒ । अ॒स्मिन् । पु॒रु॒ऽहू॒त॒ । याम॑नि । जी॒वाः । ज्योतिः॑ । अ॒शी॒म॒हि॒ ॥इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । यथा । शिक्ष । नः । अस्मिन् । पुरुहूत । यामनि । जीवाः । ज्योतिः । अशीमहि ॥indra | kratum | naḥ | ā | bhara | pitā | putrebhyaḥ | yathā | śikṣa | naḥ | asmin | puru-hūta | yāmani | jīvāḥ | jyotiḥ | aśīmahi