Sukta 7.32
मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः । त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥
मा नो॒ अज्ञा॑ता वृ॒जना॑ दुरा॒ध्यो॒३॒॑ माशि॑वासो॒ अव॑ क्रमुः । त्वया॑ व॒यं प्र॒वत॒: शश्व॑तीर॒पोऽति॑ शूर तरामसि ॥
mā́ no ajñā́tā vṛ́janā durādhyò mā́śivāso áva kramuḥ | tváyā vayaṃ pravátaḥ śáśvatīr apó ati śūra tarāmasi ||
Let not unknown perils, hard to think through, assail us; let not unkind powers tread us down. With thee we cross the eternal slopes and pass beyond the waters, O hero—beyond the currents of limitation.
मा । नः॒ । अज्ञा॑ताः । वृ॒जनाः॑ । दुः॒ऽआ॒ध्यः॑ । मा । अशि॑वासः । अव॑ । क्र॒मुः॒ । त्वया॑ । व॒यम् । प्र॒ऽवतः॑ शश्व॑तीः । अ॒पः । अति॑ । शू॒र॒ । त॒रा॒म॒सि॒ ॥मा । नः । अज्ञाताः । वृजनाः । दुःआध्यः । मा । अशिवासः । अव । क्रमुः । त्वया । वयम् । प्रवतः शश्वतीः । अपः । अति । शूर । तरामसि ॥mā | naḥ | ajñātāḥ | vṛjanāḥ | duḥ-ādhyaḥ | mā | aśivāsaḥ | ava | kramuḥ | tvayā | vayam | pra-vataḥ śaśvatīḥ | apaḥ | ati | śūra | tarāmasi