Sukta 7.32
परा णुदस्व मघवन्नमित्रान्त्सुवेदा नो वसू कृधि । अस्माकं बोध्यविता महाधने भवा वृधः सखीनाम् ॥
परा॑ णुदस्व मघवन्न॒मित्रा॑न्त्सु॒वेदा॑ नो॒ वसू॑ कृधि । अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने भवा॑ वृ॒धः सखी॑नाम् ॥
párā nudásva maghavann amítrān suvédā no vásū kṛdhi | asmā́kaṃ bodhy avitā́ mahādháne bhávā vṛ́dhaḥ sakhī́nām ||
Thrust far away the hostile powers, O bountiful Indra; make for us the riches that are well-won by right knowledge. Become aware of us as our protector; in the great battle for the plenitude, be the increaser of our comradeship and the strength of our allies.
परा॑ । नु॒द॒स्व॒ । म॒घ॒ऽव॒न् । अ॒मित्रा॑न् । सु॒ऽवेदा॑ । नः॒ । वसु॑ । कृ॒धि॒ । अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । म॒हा॒ऽध॒ने । भव॑ । वृ॒धः । सखी॑नाम् ॥परा । नुदस्व । मघवन् । अमित्रान् । सुवेदा । नः । वसु । कृधि । अस्माकम् । बोधि । अविता । महाधने । भव । वृधः । सखीनाम् ॥parā | nudasva | magha-van | amitrān | su-vedā | naḥ | vasu | kṛdhi | asmākam | bodhi | avitā | mahādhane | bhava | vṛdhaḥ | sakhīnām