Sukta 7.32
अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः । पुरूवसुर्हि मघवन्त्सनादसि भरेभरे च हव्यः ॥
अ॒भी ष॒तस्तदा भ॒रेन्द्र॒ ज्याय॒: कनी॑यसः । पु॒रू॒वसु॒र्हि म॑घवन्त्स॒नादसि॒ भरे॑भरे च॒ हव्य॑: ॥
abhī́ ṣatáḥ tádā́ bharéndra jyā́yaḥ kanī́yasaḥ | purūvásur hí maghavants sanā́d asi bháre-bhare ca hávyaḥ ||
Bring to us that power which overcomes the adversities; O Indra, mightier than the mighty, even for the lesser you are the greater. For thou, O bountiful one, art rich in many treasures from of old, and in every battle-bearing movement thou art the one to be invoked.
अ॒भि । स॒तः । तत् । आ । भ॒र॒ । इन्द्र॑ । ज्यायः॑ । कनी॑यसः । पु॒रु॒ऽवसुः॑ । हि । म॒घ॒ऽव॒न् । स॒नात् । अ॒सि॒ । भरे॑ऽभरे । च॒ । हव्यः॑ ॥अभि । सतः । तत् । आ । भर । इन्द्र । ज्यायः । कनीयसः । पुरुवसुः । हि । मघवन् । सनात् । असि । भरेभरे । च । हव्यः ॥abhi | sataḥ | tat | ā | bhara | indra | jyāyaḥ | kanīyasaḥ | puru-vasuḥ | hi | magha-van | sanāt | asi | bhare--bhare | ca | havyaḥ