Sukta 7.32
न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥
न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते । अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥
ná tvāvā́m anyó divyó ná pārthivó ná jātó ná janiṣyate | aśvāyánto maghavann indra vājíno gavyántas tvā havāmahe ||
None other—neither a power of heaven nor of earth—equals thee, nor has been born, nor shall be born. O Indra the bountiful, seeking the steed (the dynamic force) and the vāja (plenitude of victorious energy), seeking the cows (rays of light/knowledge), we call thee to us.
न । त्वाऽवा॑न् । अ॒न्यः । दि॒व्यः । न । पार्थि॑वः । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ । अ॒श्व॒ऽयन्तः॑ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । वा॒जिनः॑ । ग॒व्यन्तः॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥न । त्वावान् । अन्यः । दिव्यः । न । पार्थिवः । न । जातः । न । जनिष्यते । अश्वयन्तः । मघवन् । इन्द्र । वाजिनः । गव्यन्तः । त्वा । हवामहे ॥na | tvāvān | anyaḥ | divyaḥ | na | pārthivaḥ | na | jātaḥ | na | janiṣyate | aśva-yantaḥ | magha-van | indra | vājinaḥ | gavyantaḥ | tvā | havāmahe