Sukta 7.32
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥
अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नव॑: । ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुष॑: ॥
abhí tvā śūra nonumó 'dúgdhā iva dhenávaḥ | ī́śānam asyá jágataḥ svardṛ́śam ī́śānam indra tasthúṣaḥ ||
Toward you, O hero, we press with our hymns like unmilked cows. O Indra, you are the lord of this moving world, seeing the Sun-world; lord also of all that stands firm.
अ॒भि । त्वा॒ । शू॒र॒ । नो॒नु॒मः॒ । अदु॑ग्धाःऽइव । धे॒नवः॑ । ईशा॑नम् । अ॒स्य । जग॑तः । स्वः॒ऽदृश॑म् । ईशा॑नम् । इ॒न्द्र॒ । त॒स्थुषः॑ ॥अभि । त्वा । शूर । नोनुमः । अदुग्धाःइव । धेनवः । ईशानम् । अस्य । जगतः । स्वःदृशम् । ईशानम् । इन्द्र । तस्थुषः ॥abhi | tvā | śūra | nonumaḥ | adugdhāḥ-iva | dhenavaḥ | īśānam | asya | jagataḥ | svaḥ-dṛśam | īśānam | indra | tasthuṣaḥ