Sukta 7.32
न दुःष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर्नशत् । सुशक्तिरिन्मघवन्तुभ्यं मावते देष्णं यत्पार्ये दिवि ॥
न दु॑:ष्टु॒ती मर्त्यो॑ विन्दते॒ वसु॒ न स्रेध॑न्तं र॒यिर्न॑शत् । सु॒शक्ति॒रिन्म॑घव॒न्तुभ्यं॒ माव॑ते दे॒ष्णं यत्पार्ये॑ दि॒वि ॥
ná duḥstutī́ mártyo vindate vásu ná srédhantaṃ rayír naśat | suśáktir ín maghaván túbhyaṃ mā́vate déṣṇaṃ yát pā́rye diví ||
By ill-praise the mortal does not find the wealth; nor does the rayi reach one who is slackening. It is by true power, O bountiful, that the giving comes to the one who is devoted—your gift that is in the farther heaven.
न । दुः॒ऽस्तु॒ती । मर्त्यः॑ । वि॒न्द॒ते॒ । वसु॑ । न । स्रेध॑न्तम् । र॒यिः । न॒श॒त् । सु॒ऽशक्तिः॑ । इत् । म॒घ॒ऽव॒न् । तुभ्य॑म् । माऽव॑ते । दे॒ष्णम् । यत् । पार्ये॑ । दि॒वि ॥न । दुःस्तुती । मर्त्यः । विन्दते । वसु । न । स्रेधन्तम् । रयिः । नशत् । सुशक्तिः । इत् । मघवन् । तुभ्यम् । मावते । देष्णम् । यत् । पार्ये । दिवि ॥na | duḥ-stutī | martyaḥ | vindate | vasu | na | sredhantam | rayiḥ | naśat | su-śaktiḥ | it | magha-van | tubhyam | māvate | deṣṇam | yat | pārye | divi