Sukta 7.32
तरणिरित्सिषासति वाजं पुरंध्या युजा । आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ॥
त॒रणि॒रित्सि॑षासति॒ वाजं॒ पुरं॑ध्या यु॒जा । आ व॒ इन्द्रं॑ पुरुहू॒तं न॑मे गि॒रा ने॒मिं तष्टे॑व सु॒द्र्व॑म् ॥
taraṇír ít sisāsati vā́jaṃ púraṃdhyā yujā́ | ā́ va índraṃ puruhū́taṃ náme girā́ némim táṣṭeva sudrám ||
The crosser indeed seeks to win the vāja with the yoked power of right discernment. To you, O much-invoked Indra, I bow with speech, like a wheel-rim well-shaped by the craftsman, firm and true in its running.
त॒रणिः॑ । इत् । सि॒सा॒स॒ति॒ । वाज॑म् । पुर॑म्ऽध्या । यु॒जा । आ । वः॒ । इन्द्र॑म् । पु॒रु॒ऽहू॒तम् । न॒मे॒ । गि॒रा । ने॒मिम् । तष्टा॑ऽइव । सु॒ऽद्र्व॑म् ॥तरणिः । इत् । सिसासति । वाजम् । पुरम्ध्या । युजा । आ । वः । इन्द्रम् । पुरुहूतम् । नमे । गिरा । नेमिम् । तष्टाइव । सुद्र्वम् ॥taraṇiḥ | it | sisāsati | vājam | puram-dhyā | yujā | ā | vaḥ | indram | puru-hūtam | name | girā | nemim | taṣṭāiva | su-dram