Sukta 7.32
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे । नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥
शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑ । न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥
śíkṣeyam ín mahayaté divédivé rāyá ā́ kuhacíd víde | náhi tvád anyán maghavan na ā́pyaṃ vásyo ásti pitā́ caná ||
May I learn, day by day, for the growing one, to find the riches anywhere. For apart from you, O bountiful Indra, there is for us no nearer and more excellent good—no, not even a father.
शिक्षे॑यम् । इत् । म॒ह॒ऽय॒ते । दि॒वेऽदि॑वे । रा॒यः । आ । कु॒ह॒चि॒त्ऽविदे॑ । नहि । त्वत् । अ॒न्यत् । म॒घ॒ऽव॒न् । नः॒ । आप्य॑म् । वस्यः॑ । अस्ति॑ । पि॒ता । च॒न ॥शिक्षेयम् । इत् । महयते । दिवेदिवे । रायः । आ । कुहचित्विदे । नहि । त्वत् । अन्यत् । मघवन् । नः । आप्यम् । वस्यः । अस्ति । पिता । चन ॥śikṣeyam | it | maha-yate | dive--dive | rāyaḥ | ā | kuhacit-vide | nahi | tvat | anyat | magha-van | naḥ | āpyam | vasyaḥ | asti | pitā | cana