Sukta 7.32
त्वं विश्वस्य धनदा असि श्रुतो य ईं भवन्त्याजयः । तवायं विश्वः पुरुहूत पार्थिवोऽवस्युर्नाम भिक्षते ॥
त्वं विश्व॑स्य धन॒दा अ॑सि श्रु॒तो य ईं॒ भव॑न्त्या॒जय॑: । तवा॒यं विश्व॑: पुरुहूत॒ पार्थि॑वोऽव॒स्युर्नाम॑ भिक्षते ॥
tváṃ víśvasya dhanadā́ asi śrutó yá īṃ bhávanty ā́jayaḥ | tavāyáṃ víśvaḥ puruhūta pā́rthivo 'vasyúr nā́ma bhikṣate ||
You are the giver of the world’s wealth, famed among those who become victorious in the battle. Therefore this whole earthly being, O much-invoked, asks of you for help as his very need.
त्वम् । विश्व॑स्य । ध॒न॒ऽदाः । अ॒सि॒ । श्रु॒तः । ये । ई॒म् । भव॑न्ति । आ॒जयः॑ । तव॑ । अ॒यम् । विश्वः॑ । पु॒रु॒ऽहू॒त॒ । पार्थि॑वः । अ॒व॒स्युः । नाम॑ । भि॒क्ष॒ते॒ ॥त्वम् । विश्वस्य । धनदाः । असि । श्रुतः । ये । ईम् । भवन्ति । आजयः । तव । अयम् । विश्वः । पुरुहूत । पार्थिवः । अवस्युः । नाम । भिक्षते ॥tvam | viśvasya | dhana-dāḥ | asi | śrutaḥ | ye | īm | bhavanti | ājayaḥ | tava | ayam | viśvaḥ | puru-hūta | pārthivaḥ | avasyuḥ | nāma | bhikṣate