Sukta 7.32
तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् । सत्रा विश्वस्य परमस्य राजसि नकिष्ट्वा गोषु वृण्वते ॥
तवेदि॑न्द्राव॒मं वसु॒ त्वं पु॑ष्यसि मध्य॒मम् । स॒त्रा विश्व॑स्य पर॒मस्य॑ राजसि॒ नकि॑ष्ट्वा॒ गोषु॑ वृण्वते ॥
távéd índrāvamáṃ vásu tváṃ púṣyasi madhyamám | satrā́ víśvasya paramásya rājasi nákiṣ ṭvā góṣu vṛṇvate ||
Yours indeed, O Indra, is the lowest wealth; you foster the middle. You reign altogether over the supreme of all; none chooses you among the cows (rays) as if you were one power among many.
तव॑ । इत् । इ॒न्द्र॒ । अ॒व॒मम् । वसु॑ । त्वम् । पु॒ष्य॒सि॒ । म॒ध्य॒मम् । स॒त्रा । विश्व॑स्य । प॒र॒मस्य॑ । रा॒ज॒सि॒ । नकिः॑ । त्वा॒ । गोषु॑ । वृ॒ण्व॒ते॒ ॥तव । इत् । इन्द्र । अवमम् । वसु । त्वम् । पुष्यसि । मध्यमम् । सत्रा । विश्वस्य । परमस्य । राजसि । नकिः । त्वा । गोषु । वृण्वते ॥tava | it | indra | avamam | vasu | tvam | puṣyasi | madhyamam | satrā | viśvasya | paramasya | rājasi | nakiḥ | tvā | goṣu | vṛṇvate