Sukta 7.32
कस्तमिन्द्र त्वावसुमा मर्त्यो दधर्षति । श्रद्धा इत्ते मघवन्पार्ये दिवि वाजी वाजं सिषासति ॥
कस्तमि॑न्द्र॒ त्वाव॑सु॒मा मर्त्यो॑ दधर्षति । श्र॒द्धा इत्ते॑ मघव॒न्पार्ये॑ दि॒वि वा॒जी वाजं॑ सिषासति ॥
kás tám índra tvā́vasumā́ mártyo dadharṣati | śraddhā́ ít te maghavan pā́rye diví vājī́ vā́jaṃ sisāsati ||
Who, O Indra, the mortal, can dare against you who are rich in help? It is faith in you, O bountiful one, that in the far heaven urges the victorious soul toward the plenitude of force.
कः । तम् । इ॒न्द्र॒ । त्वाऽव॑सुम् । आ । मर्त्यः॑ । द॒ध॒र्ष॒ति॒ । श्र॒द्धा । इत् । ते॒ । म॒घ॒ऽव॒न् । पार्ये॑ । दि॒वि । वा॒जी । वाज॑म् । सि॒सा॒स॒ति॒ ॥कः । तम् । इन्द्र । त्वावसुम् । आ । मर्त्यः । दधर्षति । श्रद्धा । इत् । ते । मघवन् । पार्ये । दिवि । वाजी । वाजम् । सिसासति ॥kaḥ | tam | indra | tvāvasum | ā | martyaḥ | dadharṣati | śraddhā | it | te | magha-van | pārye | divi | vājī | vājam | sisāsati