Sukta 7.32
मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा । पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥
मन्त्र॒मख॑र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा॑त य॒ज्ञिये॒ष्वा । पू॒र्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ॥
mántram ákharvaṃ súdhitaṃ supéśasaṃ dádhāta yajñíyeṣv ā́ | pū́rvīś cana prásitayas taranti táṃ yá índre kármaṇā bhúvat ||
Set within the yajña the unbroken mantra, well-forged and of a fair form. Even the ancient impulsions cross over to that one who, by works, becomes effective in Indra.
मन्त्र॑म् । अख॑र्वम् । सुऽधि॑तम् । सु॒ऽपेश॑सम् । दधा॑त । य॒ज्ञिये॑षु । आ । पू॒र्वीः । च॒न । प्रऽसि॑तयः । त॒र॒न्ति॒ । तम् । यः । इन्द्रे॑ । कर्म॑णा । भुव॑त् ॥मन्त्रम् । अखर्वम् । सुधितम् । सुपेशसम् । दधात । यज्ञियेषु । आ । पूर्वीः । चन । प्रसितयः । तरन्ति । तम् । यः । इन्द्रे । कर्मणा । भुवत् ॥mantram | akharvam | su-dhitam | su-peśasam | dadhāta | yajñiyeṣu | ā | pūrvīḥ | cana | pra-sitayaḥ | taranti | tam | yaḥ | indre | karmaṇā | bhuvat