Sukta 7.31
ऊर्ध्वासस्त्वान्विन्दवो भुवन्दस्ममुप द्यवि । सं ते नमन्त कृष्टयः ॥
ऊ॒र्ध्वास॒स्त्वान्विन्द॑वो॒ भुव॑न्द॒स्ममुप॒ द्यवि॑ । सं ते॑ नमन्त कृ॒ष्टय॑: ॥
ūrdhvā́sas tvā́nv índavo bhúvan dasmám úpa dyávi | sáṃ te namanta kṛ́ṣṭayaḥ ||
The uplifted soma-drops follow you, O wondrous one, rising toward the luminous heaven; the peoples in us bow together to you in a single consent.
ऊ॒र्ध्वासः॑ । त्वा॒ । अनु॑ । इन्द॑वः । भुव॑न् । द॒स्मम् । उप॑ । द्यवि॑ । सम् । ते॒ । न॒म॒न्त॒ । कृ॒ष्टयः॑ ॥ऊर्ध्वासः । त्वा । अनु । इन्दवः । भुवन् । दस्मम् । उप । द्यवि । सम् । ते । नमन्त । कृष्टयः ॥ūrdhvāsaḥ | tvā | anu | indavaḥ | bhuvan | dasmam | upa | dyavi | sam | te | namanta | kṛṣṭayaḥ