Sukta 7.31
त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् । त्वया प्रति ब्रुवे युजा ॥
त्वं वर्मा॑सि स॒प्रथ॑: पुरोयो॒धश्च॑ वृत्रहन् । त्वया॒ प्रति॑ ब्रुवे यु॒जा ॥
tváṃ vármāsi sapráthaḥ puroyódhaś ca vṛtrahan | tváyā práti bruve yujā́ ||
You are the wide-spread armor, the fighter in front, O slayer of Vṛtra; yoked with you as companion-force, I speak my answering word.
त्वम् । वर्म॑ । अ॒सि॒ । स॒ऽप्रथः॑ । पु॒रः॒ऽयो॒धः । च॒ । वृ॒त्र॒ऽह॒न् । त्वया॑ । प्रति॑ । ब्रु॒वे॒ । यु॒जा ॥त्वम् । वर्म । असि । सप्रथः । पुरःयोधः । च । वृत्रहन् । त्वया । प्रति । ब्रुवे । युजा ॥tvam | varma | asi | sa-prathaḥ | puraḥ-yodhaḥ | ca | vṛtra-han | tvayā | prati | bruve | yujā