Sukta 7.31
शंसेदुक्थं सुदानव उत द्युक्षं यथा नरः । चकृमा सत्यराधसे ॥
शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नर॑: । च॒कृ॒मा स॒त्यरा॑धसे ॥
śáṃsed uktháṃ su-dā́nava utá dyukṣáṃ yáthā nárāḥ | cakṛmā́ satyá-rādhase ||
Let us proclaim the hymn to the good giver, and the shining utterance as men do; for we have worked for the one whose bounty is true—whose grace accomplishes the Truth.
शंस॑ । इत् । उ॒क्थम् । सु॒ऽदान॑वे । उ॒त । द्यु॒क्षम् । यथा॑ । नरः॑ । च॒कृ॒म । स॒त्यऽरा॑धसे ॥शंस । इत् । उक्थम् । सुदानवे । उत । द्युक्षम् । यथा । नरः । चकृम । सत्यराधसे ॥śaṃsa | it | uktham | su-dānave | uta | dyukṣam | yathā | naraḥ | cakṛma | satya-rādhase