Sukta 7.31
त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो । त्वं हिरण्ययुर्वसो ॥
त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो । त्वं हि॑रण्य॒युर्व॑सो ॥
tváṃ na indra vāja-yús tváṃ gavyúḥ śatakrato | tváṃ hiraṇya-yúr vaso ||
You, O Indra, are our seeker and bringer of plenitude; you are our seeker and bringer of the rays (the illumined herds); O hundred-powered, you are our seeker and bringer of the golden light, O wealth-lord.
त्वम् । नः॒ । इ॒न्द्र॒ । वा॒ज॒ऽयुः । त्वम् । ग॒व्युः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वम् । हि॒र॒ण्य॒ऽयुः । व॒सो॒ इति॑ ॥त्वम् । नः । इन्द्र । वाजयुः । त्वम् । गव्युः । शतक्रतो इति शतक्रतो । त्वम् । हिरण्ययुः । वसो इति ॥tvam | naḥ | indra | vāja-yuḥ | tvam | gavyuḥ | śatakrato itiśata-krato | tvam | hiraṇya-yuḥ | vaso iti