Sukta 7.31
उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः । तस्य व्रतानि न मिनन्ति धीराः ॥
उ॒रु॒व्यच॑से म॒हिने॑ सुवृ॒क्तिमिन्द्रा॑य॒ ब्रह्म॑ जनयन्त॒ विप्रा॑: । तस्य॑ व्र॒तानि॒ न मि॑नन्ति॒ धीरा॑: ॥
uru-vyácase mahíne su-vṛktím índrāya bráhma janayanta víprāḥ | tásya vratā́ni ná minanti dhī́rāḥ ||
For the wide-pervading, the mighty, the seers bring forth the well-shaped word as a mantric power for Indra; his laws of working the steadfast thinkers do not violate.
उ॒रु॒ऽव्यच॑से । म॒हिने॑ । सु॒ऽवृ॒क्तिम् । इन्द्रा॑य । ब्रह्म॑ । ज॒न॒य॒न्त॒ । विप्राः॑ । तस्य॑ । व्र॒तानि॑ । न । मि॒न॒न्ति॒ । धीराः॑ ॥उरुव्यचसे । महिने । सुवृक्तिम् । इन्द्राय । ब्रह्म । जनयन्त । विप्राः । तस्य । व्रतानि । न । मिनन्ति । धीराः ॥uru-vyacase | mahine | su-vṛktim | indrāya | brahma | janayanta | viprāḥ | tasya | vratāni | na | minanti | dhīrāḥ