Sukta 7.29
का ते अस्त्यरंकृतिः सूक्तैः कदा नूनं ते मघवन्दाशेम । विश्वा मतीरा ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥
का ते॑ अ॒स्त्यरं॑कृतिः सू॒क्तैः क॒दा नू॒नं ते॑ मघवन्दाशेम । विश्वा॑ म॒तीरा त॑तने त्वा॒याधा॑ म इन्द्र शृणवो॒ हवे॒मा ॥
kā́ te ’sty áraṃkṛtiḥ sūktáiḥ kadā́ nūnáṃ te maghavan dāśema | víśvā matī́r ā́ tatane tvāyā́dhā ma indra śṛṇavo havémā́ ||
What sufficient offering is there for you through our good utterances, and when indeed shall we satisfy you, O bountiful one? All our thoughts have been stretched out toward you; now, O Indra, hear these our calls.
का । ते॒ । अ॒स्ति॒ । अर॑म्ऽकृतिः । सु॒ऽउ॒क्तैः । क॒दा । नू॒नम् । ते॒ । म॒घ॒ऽव॒न् । दा॒शे॒म॒ । विश्वाः॑ । म॒तीः । आ । त॒त॒ने॒ । त्वा॒ऽया । अध॑ । मे॒ । इ॒न्द्र॒ । शृ॒ण॒वः॒ । हवा॑ । इ॒मा ॥का । ते । अस्ति । अरम्कृतिः । सुउक्तैः । कदा । नूनम् । ते । मघवन् । दाशेम । विश्वाः । मतीः । आ । ततने । त्वाया । अध । मे । इन्द्र । शृणवः । हवा । इमा ॥kā | te | asti | aram-kṛtiḥ | su-uktaiḥ | kadā | nūnam | te | magha-van | dāśema | viśvāḥ | matīḥ | ā | tatane | tvāyā | adha | me | indra | śṛṇavaḥ | havā | imā