Sukta 7.29
ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम् । अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥
ब्रह्म॑न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो॑ऽर्वाची॒नो हरि॑भिर्याहि॒ तूय॑म् । अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा॑णि शृणव इ॒मा न॑: ॥
bráhman vī́ra bráhma-kṛtiṃ juṣāṇó ’rvācī́nó háribhir yāhi tū́yam | asmínn ū ṣú sávane mādayasvópa bráhmāṇi śṛṇava imā́ naḥ ||
O heroic Indra, delighting in the fashioned brahman, come swiftly toward us with your tawny powers. In this Soma pressing, be intoxicated with the delight; and near us, listen to these our inspired utterances.
ब्रह्म॑न् । वी॒र॒ । ब्रह्म॑ऽकृतिम् । जु॒षा॒णः । अ॒र्वा॒ची॒नः । हरि॑ऽभिः । या॒हि॒ । तूय॑म् । अ॒स्मिन् । ऊँ॒ इति॑ । सु । सव॑ने । मा॒द॒य॒स्व॒ । उप॑ । ब्रह्मा॑णि । शृ॒ण॒वः॒ । इ॒मा । नः॒ ॥ब्रह्मन् । वीर । ब्रह्मकृतिम् । जुषाणः । अर्वाचीनः । हरिभिः । याहि । तूयम् । अस्मिन् । ऊँ इति । सु । सवने । मादयस्व । उप । ब्रह्माणि । शृणवः । इमा । नः ॥brahman | vīra | brahma-kṛtim | juṣāṇaḥ | arvācīnaḥ | hari-bhiḥ | yāhi | tūyam | asmin | oṃ iti | su | savane | mādayasva | upa | brahmāṇi | śṛṇavaḥ | imā | naḥ