Sukta 7.29
उतो घा ते पुरुष्या इदासन्येषां पूर्वेषामशृणोॠषीणाम् । अधाहं त्वा मघवञ्जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव ॥
उ॒तो घा॒ ते पु॑रु॒ष्या॒३॒॑ इदा॑स॒न्येषां॒ पूर्वे॑षा॒मशृ॑णो॒ॠषी॑णाम् । अधा॒हं त्वा॑ मघवञ्जोहवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑ ॥
utó ghā́ te puruṣyā̀ íd āsan yéṣāṃ pū́rveṣām áśṛṇo ṛ́ṣīṇām | ádhāháṃ tvā maghavan johavīmi tváṃ na indrāsi prámatíḥ pitā́iva ||
And indeed yours were those human aids, for the earlier seers whom you listened to. Therefore I call you now, O bountiful one: you are for us, O Indra, a guiding care and wise forethought, like a father.
उ॒तो इति॑ । घ॒ । ते । पु॒रु॒ष्याः॑ । इत् । आ॒स॒न् । येषा॑म् । पूर्वे॑षाम् । अ॒शृ॒णोः॒ । ऋषी॑णाम् । अध॑ । अ॒हम् । त्वा॒ । म॒घ॒ऽव॒न् । जो॒ह॒वी॒मि॒ । त्वम् । नः॒ । इ॒न्द्र॒ । अ॒सि॒ । प्रऽम॑तिः । पि॒ताऽइ॑व ॥उतो इति । घ । ते । पुरुष्याः । इत् । आसन् । येषाम् । पूर्वेषाम् । अशृणोः । ऋषीणाम् । अध । अहम् । त्वा । मघवन् । जोहवीमि । त्वम् । नः । इन्द्र । असि । प्रमतिः । पिताइव ॥uto iti | gha | te | puruṣyāḥ | it | āsan | yeṣām | pūrveṣām | aśṛṇoḥ | ṛṣīṇām | adha | aham | tvā | magha-van | johavīmi | tvam | naḥ | indra | asi | pra-matiḥ | pitāiva