Sukta 7.29
अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः । पिबा त्वस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः ॥
अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्व॒ आ तु प्र या॑हि हरिव॒स्तदो॑काः । पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारो॒र्ददो॑ म॒घानि॑ मघवन्निया॒नः ॥
ayáṃ sóma indra túbhyaṃ sunvá ā́ tu prá yāhi harivas tád-okāḥ | píbā tv asyá suṣútasya cā́ror dádó maghā́ni maghavann iyānáḥ ||
This Soma is pressed for you, O Indra; come forward to this home of the offering, O lord of the shining steeds. Drink of this well-pressed, delightful essence; then, O bountiful one, moving toward us, bestow the powers of plenitude.
अ॒यम् । सोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । सु॒न्वे॒ । आ । तु । प्र । या॒हि॒ । ह॒रि॒ऽवः॒ । तत्ऽओ॑काः । पिब॑ । तु । अ॒स्य । सुऽसु॑तस्य । चारोः॑ । ददः॑ । म॒घानि॑ । म॒घ॒ऽव॒न् । इ॒या॒नः ॥अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । आ । तु । प्र । याहि । हरिवः । तत्ओकाः । पिब । तु । अस्य । सुसुतस्य । चारोः । ददः । मघानि । मघवन् । इयानः ॥ayam | somaḥ | indra | tubhyam | sunve | ā | tu | pra | yāhi | hari-vaḥ | tat-okāḥ | piba | tu | asya | su-sutasya | cāroḥ | dadaḥ | maghāni | magha-van | iyānaḥ